Lemma

Lemma

kaḥ

who?

11 verses



Morphology

nom. sg. m. interrog.
  1. Verses on the Recognition of the Lord 1.2
    कर्तरि ज्ञातरि स्वात्मन्य् आदिसिद्धे महेश्वरे अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥२॥

    who?

  2. Verses on the Recognition of the Lord 2.5
    यतो हि पूर्वानुभवसंस्कारात् स्मृतिसंभवः यद्य् एवम् अन्तर्गडुना को ऽर्थः स्यात् स्थायिनात्मना ॥५॥

    what?

  3. Verses on the Recognition of the Lord 7.3
    देशकालक्रमजुषाम् अर्थानां स्वसमापिनाम् सकृदाभाससाध्यो ऽसाव् अन्यथा कः समन्वयः ॥३॥

    what?

  4. The Great Liberation Tantra 1.13
    त्वदन्यः संशयस्याऽस्य कस्त्रिलोक्यां महेश्वर । छेत्ता भवितुमर्हो वा सर्वज्ञः सर्वशास्त्रवित् ॥ १३ ॥

    who

  5. The Great Liberation Tantra 1.34
    त्वां विना कोऽस्ति जीवानां घोरसंसारसागरे । भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः ॥ ३४ ॥

    who

  6. The Great Liberation Tantra 1.72
    कर्तव्यं यदकर्तव्यं वर्णाश्रमविभेदतः । विना त्वां सर्वलोकानां कस्त्राता भुवनत्रये ॥ ७२ ॥

    who

  7. The Great Liberation Tantra 2.54
    न दिक्कालविचारोऽस्ति न मुद्रान्याससंहतिः । यत्साधने कुलेशानि तं विना कोऽन्यमाश्रयेत् ॥ ५४ ॥

    who

  8. The Great Liberation Tantra 3.3
    केनोपायेन भगवन् परमात्मा प्रसीदति । किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥

    what

  9. The Great Liberation Tantra 3.28
    न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः । सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च । को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥

    who

  10. The Great Liberation Tantra 3.30
    स तु सर्वहितः साधुः सर्वेषां प्रियकारकः । तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

    who

  11. The Great Liberation Tantra 3.127
    विधयः किङ्करा यत्र निषेधाः प्रभवोऽपि न । स्वेच्छाचारेणेष्टसिद्धिस्तद्विना कोऽन्यमाश्रयेत् ॥ १२७ ॥

    who