Lemma

Lemma

ātmā

আত্মা

11 verses



Morphology

nom. sg. m.
  1. Verses on the Recognition of the Lord 2.3
    अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥

    আত্মা

  2. Verses on the Recognition of the Lord 5.12
    आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥१२॥

    আত্মা

  3. Verses on the Recognition of the Lord 8.5
    भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥५॥

    আত্মা, প্রকৃত স্বরূপ

  4. Śiva Sūtras 1.1
    चैतन्यमात्मा ॥१॥

    আত্মা, স্বরূপ

  5. Śiva Sūtras 3.1
    आत्मा चित्तम् ॥१॥

    (ব্যষ্টি) আত্মা

  6. Śiva Sūtras 3.9
    नर्तक आत्मा ॥९॥

    আত্মা

  7. The Vision of Śiva 1.2
    आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः । अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥२॥

    আত্মা

  8. The Vision of Śiva 2.3
    स एवात्मा सर्वदेहव्यापकत्वेन वर्तते । अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम् ॥३॥

    আত্মা

  9. The Vision of Śiva 4.109
    एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते । तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥१०९॥

    আত্মা

  10. The Vision of Śiva 6.12
    इत्याहुर्येऽपि क्रीडार्थमेवमात्मा व्यवस्थितः । इत्यूचुर्येऽप्रबुद्धत्वं पश्चाद्ब्रह्म प्रबुद्ध्यते ॥१२॥

    আত্মা

  11. The Essence of the Tantra 1.4
    इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं सङ्कुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासङ्कुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् । तच् च शास्त्रपूर्वकम् । शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् । ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्यो ऽपि मालिनीविजयम् । तदन्तर्गतश् चार्थः सङ्कलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते । अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति । ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत्

    আত্মা