Lemma
ātmā
the Self
Morphology
nom. sg. m.
Occurrences
Read in context →- Verses on the Recognition of the Lord 2.3अथानुभवविध्वंसे स्मृतिस् तदनुरोधिनी कथं भवेन् न नित्यः स्याद् आत्मा यद्य् अनुभावकः ॥३॥
the Self
- Verses on the Recognition of the Lord 5.12आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता तात्पर्येणोदितस् तेन जडात् स हि विलक्षणः ॥१२॥
the Self
- Verses on the Recognition of the Lord 8.5भावाभावावभासानां बाह्यतोपाधिर् इष्यते नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥५॥
(their) essential nature
- Śiva Sūtras 1.1चैतन्यमात्मा ॥१॥
the Self, true nature
- Śiva Sūtras 3.1आत्मा चित्तम् ॥१॥
the (individual) self
- Śiva Sūtras 3.9नर्तक आत्मा ॥९॥
the Self
- The Vision of Śiva 1.2आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः । अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥२॥
the Self
- The Vision of Śiva 2.3स एवात्मा सर्वदेहव्यापकत्वेन वर्तते । अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम् ॥३॥
the Self
- The Vision of Śiva 4.109एवंविधो घटोऽत्रास्ते इत्यात्मा प्रतिबोध्यते । तदेवं पूर्वदृष्टस्य वर्णनासदृशं भवेत् ॥१०९॥
the self
- The Vision of Śiva 6.12इत्याहुर्येऽपि क्रीडार्थमेवमात्मा व्यवस्थितः । इत्यूचुर्येऽप्रबुद्धत्वं पश्चाद्ब्रह्म प्रबुद्ध्यते ॥१२॥
the Self
- The Essence of the Tantra 1.4इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं सङ्कुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासङ्कुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् । तच् च शास्त्रपूर्वकम् । शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् । ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्यो ऽपि मालिनीविजयम् । तदन्तर्गतश् चार्थः सङ्कलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते । अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति । ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत्
the Self