Lemma

Lemma

tvām

thee

8 verses



Morphology

acc. sg.acc. sg. f.
  1. Karpūrādi Stotra 1.7
    गतासूनां बाहुप्रकरकृतकाञ्चीपरिलसन्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिणयनाम् । श्मशानस्थे तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७॥

    thee

  2. Karpūrādi Stotra 1.8
    शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥

    thee

  3. Karpūrādi Stotra 1.10
    समन्तादापीनस्तनजघनधृग्यौवनवती- रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् । विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥ १०॥

    thee

  4. Karpūrādi Stotra 1.11
    समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः ॥ ११॥

    thee

  5. Karpūrādi Stotra 1.18
    त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥

    thee

  6. The Great Liberation Tantra 1.34
    त्वां विना कोऽस्ति जीवानां घोरसंसारसागरे । भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः ॥ ३४ ॥

    you

  7. The Great Liberation Tantra 1.72
    कर्तव्यं यदकर्तव्यं वर्णाश्रमविभेदतः । विना त्वां सर्वलोकानां कस्त्राता भुवनत्रये ॥ ७२ ॥

    you

  8. The Essence of the Tantra 20.15
    आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये ऽहर्निशम्

    you