Lemma

Lemma

purā

పూర్వము

10 verses



Morphology

adv.indecl.
  1. The Great Liberation Tantra 1.18
    श्री आद्योवाच । भगवन् सर्वभूतेश सर्वधर्मविदां वर । कृपावता भगवता ब्रह्मान्तर्यामिना पुरा ॥ १८ ॥

    పూర్వము

  2. The Great Liberation Tantra 2.2
    श्रीसदाशिव उवाच । साधु पृष्टं महाभागे जगतां हितकारिणि । एतादृशः शुभः प्रश्नो न केनापि कृतः पुरा ॥ २ ॥

    పూర్వము

  3. The Great Liberation Tantra 2.8
    श्रुतिस्मृतिपुराणादौ मयैवोक्तं पुरा शिवे । आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ॥ ८ ॥

    పూర్వము

  4. The Great Liberation Tantra 2.28
    त्वया यादृक्कृताः प्रश्ना न केनापि पुरा कृताः । तव स्नेहेन वक्ष्यामि सारात्सारं परात्परं ॥ २८ ॥

    పూర్వము

  5. Parātrīśikā 1.28
    तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये । शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः ॥२८॥

    ముందుగా, మొదట

  6. The Vision of Śiva 1.19
    यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया । तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥१९॥

    పూర్వమైనది

  7. The Vision of Śiva 3.55
    पुरा शान्तस्वरूपत्वं पश्चात्तादृगवस्थितिः । शान्ते शिवत्वं स्थूलेऽपि शिवत्वं यत्र वर्णितम् ॥५५॥

    మొదట

  8. The Vision of Śiva 4.34
    स एवास्ते पुरा तादृक्शक्तिरूपस्वरूपकः । स एव कार्यरूपेण भगवानवकल्पते ॥३४॥

    ముందుగా

  9. The Vision of Śiva 5.26
    पुरा शक्तेरानयने चक्षुः शक्तं न वेति वा । तस्यापि शक्तेः कल्प्यत्वे भवत्यानन्त्यसंगमः ॥२६॥

    ముందుగా

  10. The Vision of Śiva 5.43
    न चान्यावयवैः सार्द्धं सम्बन्धग्रहणं पुरा । तस्मान्नान्येन गृह्यन्ते प्रत्यक्षेण कदाचन ॥४३॥

    ముందుగా