Lemma

Lemma

pramāṇam

ప్రమాణము (మాన్య జ్ఞాన సాధనము)

7 verses



Morphology

acc. sg. n.nom. sg. n.
  1. Verses on the Recognition of the Lord 7.5
    स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥५॥

    ప్రమాణము (మాన్య జ్ఞాన సాధనము)

  2. Verses on the Recognition of the Lord 11.1
    इदम् एतादृगित्येवं यद् वशाद् व्यवतिष्ठते वस्तु प्रमाणं तत् सो ऽपि स्वाभासो ऽभिनवोदयः ॥१॥

    అది ప్రమాణము

  3. Verses on the Recognition of the Lord 11.16
    प्रमातरि पुराणे तु सर्वदा भातविग्रहे किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥१६॥

    ప్రమాణము

  4. The Vision of Śiva 4.40
    बाह्यं रूपादि जल्पन्ति प्रमाणं चोदनैव ते । नियमाद्धर्मविषये तस्मान्नैकेन तुल्यता ॥४०॥

    ప్రమాణమని

  5. The Vision of Śiva 6.85
    शून्यत्वे सति युज्येत प्रमाणं वोपपद्यते । संवृत्यैव संवृतिर्हि निवार्या चेदसंगमः ॥८५॥

    ప్రమాణము

  6. The Essence of the Tantra 1.4
    इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं सङ्कुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासङ्कुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् । तच् च शास्त्रपूर्वकम् । शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् । ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्यो ऽपि मालिनीविजयम् । तदन्तर्गतश् चार्थः सङ्कलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते । अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति । ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत्

    ప్రమాణము, ప్రామాణిక సాధనము

  7. The Essence of the Tantra 8.27
    अत्र च द्वैरूप्ये प्रमाणम् अपि आहुर् अभिनवगुप्तगुरवः

    ప్రమాణము