Lemma

Lemma

dhyātvā

ध्यान करके

7 verses



Morphology

abs.ger. √dhyaigerundgerund √dhyai
  1. The Great Liberation Tantra 3.55
    मन्त्रेणानेन संशोध्य ध्यात्वा ब्रह्म सनातनम् । निमील्य नेत्रे मतिमानर्पयेत् परमात्मने ॥ ५५ ॥

    ध्यान करके

  2. The Great Liberation Tantra 3.106
    प्रातर्मध्याह्नसायाह्ने यथादेशे यथाऽसने । पूर्ववत् परमब्रह्म ध्यात्वा साधकसत्तमः ॥ १०६ ॥

    ध्यान करके

  3. The Great Liberation Tantra 3.112
    ब्राह्मे मुहूर्ते चोत्थाय प्रणम्य ब्रह्मदं गुरुम् । ध्यात्वा च परमं ब्रह्म यथाशक्ति मनुं स्मरेत् । पूर्ववत् प्रणमेद् ब्रह्म प्रातःकृत्यमिदं स्मृतम् ॥ ११२ ॥

    ध्यान करके

  4. The Essence of the Tantra 13.16
    ततो ऽपि फट् फट् फट् इति अस्त्रजप्तपुष्पं प्रक्षिप्य विघ्नान् अपसारितान् ध्यात्वा अन्तः प्रविश्य परमेश्वरकिरणेद्धया दृष्ट्या अभितो यागगृहं पश्येत्

    ध्यान कर

  5. The Essence of the Tantra 19.4
    तत्र होमान्तं विधिं कृत्वा नैवेद्यम् एकहस्ते कृत्वा तदीयां वीर्यरूपां शक्तिं भोग्याकारां पशुगतभोग्यशक्तितादात्म्यप्रतिपन्नां ध्यात्वा परमेश्वरे भोक्तरि अर्पयेत् इत्य् एवं भोग्यभावे निवृत्ते पतिर् एव भवति अन्त्येष्टिमृतोद्धरणश्राद्धदीक्षाणाम् अन्यतमेनापि यद्यपि कृतार्थता तथापि बुभुक्षोः क्रियाभूयस्त्वं फलभूयस्त्वाय इति सर्वम् आचरेत्

    ध्यान कर

  6. Vijñāna Bhairava Tantra 1.62
    अमूलं मूलनाडीनां वायुपूर्णां सुषुम्णिकाम् । द्वादशान्ते स्थितां ध्यात्वा अमूलं भैरवं व्रजेत् ॥६२॥

    ध्यान करके (क्त्वान्त)

  7. Vijñāna Bhairava Tantra 1.106
    आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् । आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् ॥१०६॥

    having meditated upon