Lemma

Lemma

kalau

ਕਲਿ ਯੁਗ

12 verses



Morphology

loc. sg. m.
  1. The Great Liberation Tantra 1.36
    आयाते पापिनि कलौ सर्वधर्मविलोपिनि । दुराचारे दुष्प्रपञ्चे दुष्टकर्मप्रवर्तके ॥ ३६ ॥

    ਕਲਿ ਯੁਗ

  2. The Great Liberation Tantra 1.53
    पशुभावदिव्यभावौ स्वयमेव निवारितौ । कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् ॥ ५३ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  3. The Great Liberation Tantra 1.66
    स्तोत्रपाठं यन्त्रलिपिं पुरश्चर्यां जगत्पते । युगधर्मप्रभावेण स्वभावेन कलौ नराः । भविष्यन्त्यतिदुर्वृत्ताः सर्वथा पापकारिणः ॥ ६६ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  4. The Great Liberation Tantra 2.7
    सत्यं सत्यं पुनः सत्यं सत्यं सत्यं मयोच्यते । विना ह्यागममार्गेण कलौ नास्ति गतिः प्रिये ॥ ७ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  5. The Great Liberation Tantra 2.8
    श्रुतिस्मृतिपुराणादौ मयैवोक्तं पुरा शिवे । आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ॥ ८ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  6. The Great Liberation Tantra 2.9
    कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते । न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  7. The Great Liberation Tantra 2.14
    कलौ तन्त्रोदिता मन्त्राः सिद्धास्तूर्णफलप्रदाः । शस्ताः कर्मसु सर्वेषु जपयज्ञक्रियादिषु ॥ १४ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  8. The Great Liberation Tantra 2.15
    निर्वीर्याः श्रौतजातीया विषहीनोरगा इव । सत्यादौ सफला आसन् कलौ ते मृतका इव ॥ १५ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  9. The Great Liberation Tantra 2.18
    कलावन्योदितैर्मार्गैः सिद्धिमिच्छति यो नरः । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ १८ ॥

    ਕਲਿ ਯੁਗ ਵਿੱਚ

  10. The Great Liberation Tantra 3.121
    कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे । निस्तारबीजमेतावत् ब्रह्ममन्त्रस्य साधनम् ॥ १२१ ॥

    ਕਲਿਯੁਗ ਵਿੱਚ

  11. The Great Liberation Tantra 3.122
    साधनानि बहूक्तानि नानातन्त्रागमादिषु । कलौ दुर्बलजीवानामसाध्यानि महेश्वरि ॥ १२२ ॥

    ਕਲਿਯੁਗ ਵਿੱਚ

  12. The Great Liberation Tantra 3.125
    कलौ नास्त्येव नास्त्येव सत्यं सत्यं मयोच्यते । ब्रह्मदीक्षां विना देवि कैवल्याय सुखाय च ॥ १२५ ॥

    ਕਲਿਯੁਗ ਵਿੱਚ