Lemma

Lemma

svātantryāt

(ନିଜ) ସ୍ୱାତନ୍ତ୍ର୍ୟରୁ

6 verses



Morphology

abl. sg. n.
  1. Verses on the Recognition of the Lord 5.16
    स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्याद् अद्वयात्मनः प्रभुर् ईशादिसंकल्पैर् निर्माय व्यवहारयेत् ॥१६॥

    (ନିଜ) ସ୍ୱାତନ୍ତ୍ର୍ୟରୁ

  2. The Essence of the Tantra 1.5
    तत्र इह स्वभाव एव परमोपादेयः स च सर्वभावानां प्रकाशरूप एव अप्रकाशस्य स्वभावतानुपपत्तेः स च नानेकः प्रकाशस्य तदितरस्वभावानुप्रवेशायोगे स्वभावभेदाभावात् देशकालाव् अपि च अस्य न भेदकौ तयोर् अपि तत्प्रकाशस्वभावत्वात् इति एक एव प्रकाशः स एव च संवित् अर्थप्रकाशरूपा हि संवित् इति सर्वेषाम् अत्र अविवाद एव । स च प्रकाशो न परतन्त्रः प्रकाश्यतैव हि पारतन्त्र्यम् प्रकाश्यता च प्रकाशान्तरापेक्षितैव न च प्रकाशान्तरं किञ्चित् अस्ति इति स्वतन्त्र एकः प्रकाशः स्वातन्त्र्याद् एव च देशकालाकारावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभावः तस्य च स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कार इच्छाशक्तिः प्रकाशरूपता चिच्छक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इत्य् एवं मुख्याभिः शक्तिभिः युक्तो ऽपि वस्तुत इच्छाज्ञानक्रियाशक्तियुक्तः अनवच्छिन्नः प्रकाशो निजानन्दविश्रान्तः शिवरूपः स एव स्वातन्त्र्यात् आत्मानं सङ्कुचितम् अवभासयन् अणुर् इति उच्यते । पुनर् अपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति येन अनवच्छिन्नप्रकाशशिवरूपतयैव प्रकाशते । तत्रापि स्वातन्त्र्यवशात् अनुपायम् एव स्वात्मानं प्रकाशयति सोपायं वा सोपायत्वे ऽपि इच्छा वा ज्ञानं वा क्रिया वा अभ्युपाय इति त्रैविध्यं शाम्भवशाक्ताणवभेदेन समावेशस्य तत्र चतुर्विधम् अपि एतद् रूपं क्रमेण अत्र उपदिश्यते । आत्मा प्रकाशवपुर् एष शिवः स्वतन्त्रः स्वातन्त्र्यनर्मरभसेन निजं स्वरूपम् । सञ्छाद्य यत् पुनर् अपि प्रथयेत पूर्णं तच् च क्रमाक्रमवशाद् अथवा त्रिभेदात्

    ସ୍ୱାତନ୍ତ୍ର୍ୟ ହେତୁ

  3. The Essence of the Tantra 4.21
    अयं परमार्थः स्वरूपं प्रकाशमानम् अख्यातिरूपत्वं स्वयं स्वातन्त्र्यात् गृहीतं क्रमेण प्रोज्झ्य विकासोन्मुखम् अथ विकसत् अथ विकसितम् इत्य् अनेन क्रमेण प्रकाशते तथा प्रकाशनम् अपि परमेश्वरस्य स्वरूपम् एव तस्मात् न अत्र योगाङ्गानि साक्षात् उपायः

    ସ୍ୱାତନ୍ତ୍ର୍ୟ (ନିଜ ସ୍ୱାଧୀନତା)ରୁ

  4. The Essence of the Tantra 4.36
    ता एताः चतस्रः शक्तयः स्वातन्त्र्यात् प्रत्येकं त्रिधैव वर्तन्ते

    ସ୍ୱାତନ୍ତ୍ର୍ୟ ହେତୁ

  5. The Essence of the Tantra 6.2
    संविद् एव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अत एव च अवच्छेदयोगात् वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति ततो ऽसौ चेतन इव भाति

    ସ୍ୱାତନ୍ତ୍ର୍ୟ (ସ୍ୱାଧୀନତା)ରୁ

  6. The Essence of the Tantra 8.15
    तत्र परमेश्वरः पञ्चभिः शक्तिभिः निर्भर इत्य् उक्तम् स स्वातन्त्र्यात् शक्तिं तां तां मुख्यतया प्रकटयन् पञ्चधा तिष्ठति

    ସ୍ୱାତନ୍ତ୍ର୍ୟ ବଳରୁ