Lemma

Lemma

saṃvit

সংবিৎ, চৈতন্য

4 verses



Morphology

nom. sg. f.
  1. The Essence of the Tantra 1.5
    तत्र इह स्वभाव एव परमोपादेयः स च सर्वभावानां प्रकाशरूप एव अप्रकाशस्य स्वभावतानुपपत्तेः स च नानेकः प्रकाशस्य तदितरस्वभावानुप्रवेशायोगे स्वभावभेदाभावात् देशकालाव् अपि च अस्य न भेदकौ तयोर् अपि तत्प्रकाशस्वभावत्वात् इति एक एव प्रकाशः स एव च संवित् अर्थप्रकाशरूपा हि संवित् इति सर्वेषाम् अत्र अविवाद एव । स च प्रकाशो न परतन्त्रः प्रकाश्यतैव हि पारतन्त्र्यम् प्रकाश्यता च प्रकाशान्तरापेक्षितैव न च प्रकाशान्तरं किञ्चित् अस्ति इति स्वतन्त्र एकः प्रकाशः स्वातन्त्र्याद् एव च देशकालाकारावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभावः तस्य च स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कार इच्छाशक्तिः प्रकाशरूपता चिच्छक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इत्य् एवं मुख्याभिः शक्तिभिः युक्तो ऽपि वस्तुत इच्छाज्ञानक्रियाशक्तियुक्तः अनवच्छिन्नः प्रकाशो निजानन्दविश्रान्तः शिवरूपः स एव स्वातन्त्र्यात् आत्मानं सङ्कुचितम् अवभासयन् अणुर् इति उच्यते । पुनर् अपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति येन अनवच्छिन्नप्रकाशशिवरूपतयैव प्रकाशते । तत्रापि स्वातन्त्र्यवशात् अनुपायम् एव स्वात्मानं प्रकाशयति सोपायं वा सोपायत्वे ऽपि इच्छा वा ज्ञानं वा क्रिया वा अभ्युपाय इति त्रैविध्यं शाम्भवशाक्ताणवभेदेन समावेशस्य तत्र चतुर्विधम् अपि एतद् रूपं क्रमेण अत्र उपदिश्यते । आत्मा प्रकाशवपुर् एष शिवः स्वतन्त्रः स्वातन्त्र्यनर्मरभसेन निजं स्वरूपम् । सञ्छाद्य यत् पुनर् अपि प्रथयेत पूर्णं तच् च क्रमाक्रमवशाद् अथवा त्रिभेदात्

    সংবিৎ, চৈতন্য

  2. The Essence of the Tantra 4.38
    तथा हि संवित् पूर्वम् अन्तर् एव भावं कलयति ततो बहिर् अपि स्फुटतया कलयति तत्रैव रक्तिमयतां गृहीत्वा ततः तम् एव भावम् अन्तर् उपसञ्जिहीर्षया कलयति ततश् च तदुपसंहारविघ्नभूतां शङ्कां निर्मिणोति च ग्रसते च ग्रस्तशङ्कांशं भावभागम् आत्मनि उपसंहारेण कलयति तत उपसंहर्तृत्वं ममेदं रूपम् इत्य् अपि स्वभावम् एव कलयति तत उपसंहर्तृस्वभावकलने कस्यचिद् भावस्य वासनात्मना अवस्थितिं कस्यचित् तु संविन्मात्रावशेषतां कलयति ततः स्वरूपकलनानान्तरीयकत्वेनैव करणचक्रं कलयति ततः करणेश्वरम् अपि कलयति ततः कल्पितं मायीयं प्रमातृरूपम् अपि कलयति सङ्कोचत्यागोन्मुखविकासग्रहणरसिकम् अपि प्रमातारं कलयति अतो विकसितम् अपि रूपं कलयति इति एता द्वादश भगवत्यः संविदः प्रमातॄन् एकं वापि उद्दिश्य युगपत् क्रमेण द्विशः त्रिश इत्यादिस्थित्यापि उदयभागिन्यः चक्रवद् आवर्तमाना बहिर् अपि मासकलाराश्यादिक्रमेण अन्ततो वा घटपटादिक्रमेणापि भासमानाः चक्रेश्वरस्य स्वातन्त्र्यं पुष्णत्यः श्रीकालीशब्दवाच्याः

    সংবিৎ

  3. The Essence of the Tantra 6.2
    संविद् एव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अत एव च अवच्छेदयोगात् वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति ततो ऽसौ चेतन इव भाति

    সংবিৎ, শুদ্ধ চৈতন্য

  4. The Essence of the Tantra 6.48
    अत्र प्राणो जगत् सृजति तावती रात्रिः यत्र प्राणप्रशमः प्राणे च ब्रह्मबिलधाम्नि शान्ते ऽपि या संवित् तत्राप्य् अस्ति क्रमः

    সংবিৎ (যাহা অবশিষ্ট থাকে)