Lemma

Lemma

malaḥ

మలము, అశుద్ధి

3 verses



Morphology

nom. sg. m.
  1. The Essence of the Tantra 1.4
    इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं सङ्कुचितप्रथात्मकं तद् एव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न सम्भवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठम् एव ज्ञानं प्रधानम् तद् एव च अभ्यस्यमानं पौरुषम् अपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासङ्कुचितसंवित्प्रकाशरूपो ह्य् आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानम् उपादेयम् । तच् च शास्त्रपूर्वकम् । शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् । अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् । ततो ऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्यो ऽपि मालिनीविजयम् । तदन्तर्गतश् चार्थः सङ्कलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते । अज्ञानं किल बन्धहेतुर् उदितः शास्त्रे मलं तत् स्मृतं पूर्णज्ञानकलोदये तद् अखिलं निर्मूलतां गच्छति । ध्वस्ताशेषमलात्मसंविदुदये मोक्षश् च तेनामुना शास्त्रेण प्रकटीकरोमि निखिलं यज् ज्ञेयतत्त्वं भवेत्

    మలము, అశుద్ధి

  2. The Essence of the Tantra 8.19
    तत्र लोलिको ऽपूर्णम् अन्यतारूपः परिस्पन्दः अकर्मकम् अभिलाषमात्रम् एव भविष्यद् अवच्छेदयोग्यतेति न मलः पुंसस् तत्त्वान्तरम्

    మలము

  3. The Essence of the Tantra 8.22
    सो ऽयं मलः परमेश्वरस्य स्वात्मप्रच्छादनेच्छातः नान्यत् किञ्चित् वस्त्व् अपि च तत्परमेश्वरेच्छात्मनैव धरादेर् अपि वस्तुत्वात्

    మలము