Lemma

Lemma

kālaḥ

କାଳ

4 verses



Morphology

nom. sg. m.
  1. Verses on the Recognition of the Lord 9.3
    कालः सूर्यादिसंचारस् तत्तत्पुष्पादिजन्म वा शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥३॥

    କାଳ

  2. The Essence of the Tantra 6.1
    स एव स्थानप्रकल्पनशब्देन उक्तः तत्र त्रिधा स्थानं प्राणवायुः शरीरं बाह्यं च तत्र प्राणे तावत् विधिः सर्वः असौ वक्ष्यमाणः अध्वा प्राणस्थः कल्यते तस्य क्रमाक्रमकलनैव कालः स च परमेश्वर एव अन्तर्भाति तद्भासनं च देवस्य काली नाम शक्तिः भेदेन तु तदाभासनं क्रमाक्रमयोः प्राणवृत्तिः

    କାଳ

  3. The Essence of the Tantra 7.16
    तद् यथा नियतिः रागो ऽशुद्धविद्या कालः कला चेति

    କାଳ (ସମୟ)

  4. The Essence of the Tantra 8.53
    कालश् च कार्यं कलयंस् तदवच्छिन्नं कर्तृत्वम् अपि कलयति तुल्ये क्वचित्त्वे अस्मिन्न् एव कर्तृत्वम् इत्य् अत्रार्थे नियतेर् व्यापारः

    କାଳ