Lemma
svabhāvaḥ
ಸ್ವಭಾವ (ನಿಜ ಸ್ವರೂಪ)
Morphology
nom. sg. m.
Occurrences
Read in context →- Verses on the Recognition of the Lord 12.11योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥११॥
ಸ್ವಭಾವ (ನಿಜ ಸ್ವರೂಪ)
- The Heart of Recognition 1.7स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः ॥७॥
ಸ್ವಭಾವಃ — ಆ ಸ್ವಭಾವವುಳ್ಳವನು
- The Essence of the Tantra 1.5तत्र इह स्वभाव एव परमोपादेयः स च सर्वभावानां प्रकाशरूप एव अप्रकाशस्य स्वभावतानुपपत्तेः स च नानेकः प्रकाशस्य तदितरस्वभावानुप्रवेशायोगे स्वभावभेदाभावात् देशकालाव् अपि च अस्य न भेदकौ तयोर् अपि तत्प्रकाशस्वभावत्वात् इति एक एव प्रकाशः स एव च संवित् अर्थप्रकाशरूपा हि संवित् इति सर्वेषाम् अत्र अविवाद एव । स च प्रकाशो न परतन्त्रः प्रकाश्यतैव हि पारतन्त्र्यम् प्रकाश्यता च प्रकाशान्तरापेक्षितैव न च प्रकाशान्तरं किञ्चित् अस्ति इति स्वतन्त्र एकः प्रकाशः स्वातन्त्र्याद् एव च देशकालाकारावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभावः तस्य च स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कार इच्छाशक्तिः प्रकाशरूपता चिच्छक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इत्य् एवं मुख्याभिः शक्तिभिः युक्तो ऽपि वस्तुत इच्छाज्ञानक्रियाशक्तियुक्तः अनवच्छिन्नः प्रकाशो निजानन्दविश्रान्तः शिवरूपः स एव स्वातन्त्र्यात् आत्मानं सङ्कुचितम् अवभासयन् अणुर् इति उच्यते । पुनर् अपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति येन अनवच्छिन्नप्रकाशशिवरूपतयैव प्रकाशते । तत्रापि स्वातन्त्र्यवशात् अनुपायम् एव स्वात्मानं प्रकाशयति सोपायं वा सोपायत्वे ऽपि इच्छा वा ज्ञानं वा क्रिया वा अभ्युपाय इति त्रैविध्यं शाम्भवशाक्ताणवभेदेन समावेशस्य तत्र चतुर्विधम् अपि एतद् रूपं क्रमेण अत्र उपदिश्यते । आत्मा प्रकाशवपुर् एष शिवः स्वतन्त्रः स्वातन्त्र्यनर्मरभसेन निजं स्वरूपम् । सञ्छाद्य यत् पुनर् अपि प्रथयेत पूर्णं तच् च क्रमाक्रमवशाद् अथवा त्रिभेदात्
ಸ್ವಭಾವ (ತನ್ನದೇ ಸ್ವರೂಪ)