चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् ।
अतश्च तन्मयं सर्वं भावयन्भवजिज्जनः ॥१३५॥
ciddharmā sarvadeheṣu viśeṣo nāsti kutracit |
ataś ca tanmayaṃ sarvaṃ bhāvayan bhavajij janaḥ
anuṣṭubh
[पुनरुक्ति — श्लोक ८३] सब देहों में चित्-धर्म है, कहीं विशेष (भेद) नहीं — तन्मय सर्व की भावना करता हुआ (साधक) भव-जित् हो जाता है।