Lemma

Lemma

paramam

পৰম (স্বৰূপ)

7 verses



Morphology

acc. sg. m.acc. sg. n.nom. sg. n.nom./voc. sg. n.
  1. Karpūrādi Stotra 1.9
    वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥

    পৰম (স্বৰূপ)

  2. Karpūrādi Stotra 1.13
    अनेके सेवन्ते भवदधिगिर्वाणनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् । समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥ १३॥

    পৰম

  3. The Great Liberation Tantra 3.39
    ऋषिः सदाशिवो ह्यस्य छन्दोऽनुष्टुवुदाहृतम् । देवता परमं ब्रह्म सर्वान्तर्यामि निर्गुणम् ॥ ३९ ॥

    পৰম

  4. The Great Liberation Tantra 3.51
    ध्यात्वैवं परमं ब्रह्म मानसैरुपचारकैः । पूजयेत् परया भक्त्या ब्रह्मसायुज्यहेतवे ॥ ५१ ॥

    পৰম

  5. The Great Liberation Tantra 3.74
    नमस्ते परमं ब्रह्म नमस्ते परमात्मने । निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ७४ ॥

    পৰম

  6. The Great Liberation Tantra 3.112
    ब्राह्मे मुहूर्ते चोत्थाय प्रणम्य ब्रह्मदं गुरुम् । ध्यात्वा च परमं ब्रह्म यथाशक्ति मनुं स्मरेत् । पूर्ववत् प्रणमेद् ब्रह्म प्रातःकृत्यमिदं स्मृतम् ॥ ११२ ॥

    পৰম

  7. The Great Liberation Tantra 3.116
    अभुक्तो वाऽपि भुक्तो वा स्नातो वाऽस्नात एव वा । साधयेत् परमं मन्त्रं स्वेच्छाचारेण साधकः ॥ ११६ ॥

    পৰম