Lemma

Lemma

sāmānyam

ସାମାନ୍ୟ

4 verses



Morphology

nom. sg. n.
  1. The Vision of Śiva 4.85
    सामान्यमविशेषं चेदविशेषात्कुतः प्रमा । विशेषस्याप्यपूर्वत्वे कथं चास्ति समन्वयः ॥८५॥

    ସାମାନ୍ୟ

  2. The Vision of Śiva 5.45
    धूमात्तत्र गृहीतं किं सामान्यं नैव गृह्यते । अग्राह्यत्वात्तस्य तदा विशेषे दूरतैव ते ॥४५॥

    ସାମାନ୍ୟ (ଧୂମତ୍ୱ)

  3. The Essence of the Tantra 20.26
    तत्र सामान्यं सामान्यसामान्यं सामान्यविशेषो विशेषसामान्यं विशेषो विशेषविशेषश् च इति षोढा पर्व

    ସାମାନ୍ୟ

  4. The Essence of the Tantra 20.28
    तत्र मासि मासि प्रथमं पञ्चमं दिनं सामान्यम् चतुर्थाष्टमनवमचतुर्दशपञ्चदशानि द्वयोर् अपि पक्षयोः सामान्यसामान्यम् अनयोर् उभयोर् अपि राश्योः वक्ष्यमाणतत्तत्तिथ्युचितग्रहनक्षत्रयोगे सामान्यविशेषः मार्गशीर्षस्य प्रथमरात्रिभागः कृष्णनवम्याम् पौषस्य तु रात्रिमध्यं कृष्णनवम्याम् माघस्य रात्रिमध्यं शुक्लपञ्चदश्याम् फाल्गुनस्य दिनमध्यं शुक्लद्वादश्याम् चैत्रस्य शुक्लत्रयोदश्याम् वैशाखस्य कृष्णाष्टम्याम् ज्यैष्ठस्य कृष्णनवम्याम् आषाढस्य प्रथमे दिने श्रावणस्य दिवसपूर्वभागः कृष्णैकादश्याम् भाद्रपदस्य दिनमध्यं शुक्लषष्ट्याम् आश्वयुजस्य शुक्लनवमीदिनम् कार्त्तिकस्य प्रथमो रात्रिभागः शुक्लनवम्याम् इति विशेषपर्व

    ସାମାନ୍ୟ (ପର୍ବ)